वांछित मन्त्र चुनें

तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात् ॥२६॥

मन्त्र उच्चारण
पद पाठ

तम्। त्वा॒। शो॒चि॒ष्ठ। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धि। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒त इत्य॑घऽयतः। स॒म॒स्मा॒त् ॥२६॥

यजुर्वेद » अध्याय:3» मन्त्र:26


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे (शोचिष्ठ) अत्यन्त शुद्धस्वरूप (दीदिवः) स्वयं प्रकाशमान आनन्द के देनेवाले जगदीश्वर ! हम लोग वा (नः) अपने (सखिभ्यः) मित्रों के (सुम्नाय) सुख के लिये (तं त्वा) आप से (ईमहे) याचना करते हैं तथा जो आप (नः) हम को (बोधि) अच्छे प्रकार विज्ञान को देते हैं (सः) सो आप (नः) हमारे (हवम्) सुनने-सुनाने योग्य स्तुतिसमूह यज्ञ को (श्रुधि) कृपा करके श्रवण कीजिये और (नः) हम को (समस्मात्) सब प्रकार (अघायतः) पापाचरणों से अर्थात् दूसरे को पीड़ा करने रूप पापों से (उरुष्य) अलग रखिये ॥२६॥
भावार्थभाषाः - सब मनुष्यों को अपने मित्र और सब प्राणियों के सुख के लिये परमेश्वर की प्रार्थना करना और वैसा ही आचरण भी करना कि जिससे प्रार्थित किया हुआ परमेश्वर अधर्म से अलग होने की इच्छा करनेवाले मनुष्यों को अपनी सत्ता से पापों से पृथक् कर देता है, वैसे ही उन मनुष्यों को भी पापों से बचकर धर्म के करने में निरन्तर प्रवृत्त होना चाहिये ॥२६॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः स कीदृश इत्युपदिश्यते ॥

अन्वय:

(तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिवः) प्रकाशमयानन्दप्रद। अत्र दिवुधातोश्छन्दसि लिट् [अष्टा०३.२.१०५] इति लिट्। क्वसुश्च [अष्टा०३.२.१०७] इति लिटः स्थाने क्वसुः। छन्दस्युभयथा [अष्टा०३.४.११७] इति लिडादेशस्य क्वसोः सार्वधातुकत्वादिडभावः। तुजादीनां दीर्घोऽभ्यासस्य [अष्टा०६.१.७] इत्यभ्यासदीर्घः। मतुवसो रुः सम्बुद्धौ छन्दसि [अष्टा०८.३.१] इति रुरादेशश्च। (सुम्नाय) सुखाय। सुम्नमिति सुखनामसु पठितम्। (निघं०३.९) (नूनम्) निश्चयार्थे (ईमहे) याचामहे। ईमह इति याच्ञाकर्मसु। (निघं०३.१९) (सखिभ्यः) मित्रेभ्यः (सः) जगदीश्वरः (नः) अस्मानस्माकं वा (बोधि) बोधयति। अत्र लडर्थे लुङ् बहुलं छन्दसि [अष्टा०६.४.७३] इत्यडभावोऽन्तर्गतो ण्यर्थश्च। (श्रुधि) शृणु। अत्र द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घः। बहुलं छन्दसि [अष्टा०२.४.७३] इति श्नोर्लुक्। श्रुशृणु० [अष्टा०६.४.१०२] इति हेर्ध्यादेशश्च। (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञम् (उरुष्य) रक्ष। अत्र कण्ड्वादि [अष्टा०३.१.२७] आकृतिगणत्वादुरुषशब्दाद् यक्, ततोऽन्येषामपि० [अष्टा०६.३.१३७] इति दीर्घः। (नः) अस्मान्। अत्र। नश्च धातुस्थोरुषुभ्यः। (अष्टा०८.४.२६) इति णकारादेशः। (अघायतः) यः परस्याघमिच्छत्यघायति ततः। आचार्यप्रवृत्तिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति, यदयमश्वाघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति (अष्टा०३.१.८) अस्मिन् सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम्। (समस्मात्) सर्वस्मात्। समशब्दोऽत्र सर्वपर्यायः। अयं मन्त्रः (शत०२.३.४.३१-३३) व्याख्यातः ॥२६॥

पदार्थान्वयभाषाः - हे शोचिष्ठ दीदिवो जगदीश्वर ! वयं नोऽस्माकं सखिभ्यश्च नूनं सुम्नाय तं त्वामीमहे, यो भवान् नोऽस्मान् बोधि सम्यग्विज्ञानं बोधयति, सः त्वं नोऽस्माकं हवं श्रुधि कृपया शृणु, नोऽस्मान् समस्मात् सर्वस्मादघायतः परपीडाकरणरूपात् पापादुरुष्य सततं पृथग् रक्ष ॥२६॥
भावार्थभाषाः - सर्वैर्मनुष्यैः स्वार्थं स्वमित्रार्थं सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम्। प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थाभ्यां सर्वेभ्यः पापेभ्यो निवर्त्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम् ॥२६॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सर्व माणसांनी आपले मित्र व सर्व प्राणी यांच्या सुखासाठी परमेश्वराची प्रार्थना केली पाहिजे व तसेच आचरणही केले पाहिजे. त्यामुळे परमेश्वर, आपल्या सामर्थ्याने, अधर्मापासून दूर होण्याची इच्छा बाळगणाऱ्या माणसांना पापांपासून दूर करतो; पण माणसांनीही पापांपासून दूर होऊन सदैव धर्मात प्रवृत्त झाले पाहिजे.